|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.209. अध्यायः 209
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति वासुदेवतत्वकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`* युधिष्ठिर उवाच। 12-209-0x(6068)(73335)
पितामह महाप्राज्ञ केशवस्य महात्मनः।
वक्तुमर्हसि तत्त्वेन माहात्म्यं पुनरेव तु॥ 12-209-1(73336)
न तृप्याम्यहमप्येनं पश्यञ्शृण्वंश्च भारत।
एवं कृष्णं महाबाहो तस्मादेतद्ब्रवीहि मे॥ 12-209-2(73337)
भीष्म उवाच। 12-209-3x(6069)
शृणु राजन्कथामेतां वैष्णवीं पापनाशनीम्।
नारदो मां पुरा प्राह यामहं ते वदामि ताम्॥ 12-209-3(73338)
देवर्षिर्नारदः पूर्वं तत्वं वेत्स्यामि वै हरेः।
इति संचिन्त्य मनसा दध्यौ ब्रह्म सनातनम्॥ 12-209-4(73339)
हिमालये शुभे दिव्ये दिव्यं वर्षशतं किल।
अनुच्छ्वसन्निराहारः संयतात्मा जितेन्द्रियः॥ 12-209-5(73340)
ततोऽन्तरिक्षे वागासीत्तं मुनिप्रवरं प्रति।
मेघगम्भीरनिर्घोषा दिव्या वाह्याऽशरीरिणी॥ 12-209-6(73341)
किमर्थं त्वं समापन्नो ध्यानं मुनिवरोत्तम।
अहं ददामि ते ज्ञानं धर्माद्यं वा वृणीष्व माम्॥ 12-209-7(73342)
तच्छ्रुत्वा मुनिरालोच्य संभ्रमाविष्टमानसः।
किंनु स्यादिति संचिन्त्य वाक्यमाहापरं प्रति॥ 12-209-8(73343)
कस्त्वं भवानण्डं बिभेद मध्ये
समास्थितो वाक्यमुदीरयन्माम्।
न रूपमन्यत्तव दृश्यते वै
ईदृग्विधस्त्वं समधिष्ठितोऽसि॥ 12-209-9(73344)
पुनस्तमाह स मुनिमनन्तोऽहं बृहत्तरः।
न मां मूढा विजानन्ति ज्ञानिनो मां विदन्त्युत॥ 12-209-10(73345)
तं प्रत्याह मुनिः श्रीमान्प्रणतो विनयान्वितः।
भवन्तं ज्ञातुमिच्छामि तव तत्वं ब्रवीहि मे॥ 12-209-11(73346)
तस्य तद्वचनं श्रुत्वा नारदं प्राह लोकपः।
ज्ञानेन मां विजानीहि नान्यथा शक्तिरस्ति ते॥ 12-209-12(73347)
नारद उवाच। 12-209-13x(6070)
कीदृग्विधं तु तज्ज्ञानं येन जानामि ते तनुम्।
अनन्त तन्मे ब्रूहि त्वं यद्यनुग्रहवानहम्॥ 12-209-13(73348)
लोकपाल उवाच। 12-209-14x(6071)
विकल्पहीनं विपुलं तस्य चूरं शिवं परम्।
ज्ञानं तत्तेन जानासि साधनं प्रति ते मुने॥ 12-209-14(73349)
अत्रावृत्य स्थितं ह्येतत्तच्छुद्धमितरन्मृषा।
एतत्ते सर्वमाख्यातं संक्षेपान्मुनिसत्तम॥ 12-209-15(73350)
नारद उवाच। 12-209-16x(6072)
त्वमेव तव यत्तत्वं ब्रूहि लोकगुरो मम।
भवन्तं ज्ञातुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-16(73351)
ततः प्रहस्य भगवान्मेघगम्भीरया गिरा।
प्राहेशः सर्वभूतानां न मे चास्यं श्रुतिर्न च॥ 12-209-17(73352)
न घ्राणजिह्वे दृक्चैव त्वचा नास्ति तथा मुने।
कथं वक्ष्यामि चात्मानमशरीरस्तथाप्यहम्॥ 12-209-18(73353)
तज्ज्ञात्वा विस्मयाविष्टो मुनिराह प्रणम्य तम्।
येन त्वं पूर्वमात्मानमनन्तोऽहं बृहत्तरः।
शतोऽहमिति मां प्रीतः प्रोक्तवानसि तत्कथम्॥ 12-209-19(73354)
पुनस्तमाह भगवांस्तवाप्यक्षाणि सन्ति वै।
त्वमेनं ब्रूहि चात्मानं यदि शक्नोषि नारद॥ 12-209-20(73355)
आत्मा यथा तव मुने विदितस्तु भविष्यति।
मां च जानासि तेन त्वमेकं साधनमावयोः।
इत्युक्त्वा भगवान्देवस्ततो नोवाच किंचन॥ 12-209-21(73356)
नारदोऽप्युत्स्मयन्खिन्नः क्व गतोऽसाविति प्रभुः।
स्थित्वा स दीर्घकालं च मुनिर्व्यामूढमानसः॥ 12-209-22(73357)
आह मां भगवान्देवस्त्वनन्तोऽहं बृहत्तरः।
तेनाहमिति सर्वस्य को वानन्तो बृहत्तरः॥ 12-209-23(73358)
केयमुर्वी ह्यनन्ताख्या बृहती नूनमेव सा।
यस्यां जानन्ति भूतानि विलीनानि ततस्ततः।
एनां पृच्छामि तरुणीं सैषा नूनमुवाच माम्॥ 12-209-24(73359)
इत्येवं स मुनिः श्रीमान्कृत्वा निश्चयमात्मनः।
स भूतलं समाविश्य प्रणिपत्येदमब्रवीत्॥ 12-209-25(73360)
आश्चर्यासि च धन्यासि वृहती त्वं वसुन्धरे।
त्वामत्र वेत्तुमिच्छामि याग्दृभूताऽसि शोभने॥ 12-209-26(73361)
तच्छ्रुत्वा धरणी देवी स्मयमानाऽब्रवीदिदम्।
नाहं हि बृहती विप्र न चानन्ता च सत्तम॥ 12-209-27(73362)
कारणं मम यो गन्धो गन्धात्मानं ब्रवीहि तम्।
ततो मुनिस्तद्धि तत्वं प्रणिपत्येदमब्रवीत्॥ 12-209-28(73363)
कारणं मे जलं मत्तो बृहत्तरतमं हि तत्॥ 12-209-29(73364)
स समुद्रं मुनिर्गत्वा प्रणिपत्येदमब्रवीत्।
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः॥ 12-209-30(73365)
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्यमव्यय।
तच्छ्रुत्वा सरितानाथः समुद्रो मुनिमब्रवीत्॥ 12-209-31(73366)
कारणं मेऽत्र संपृच्छ रसात्मानं बृहत्तरम्।
ततो बृहत्तरं विद्वंस्त्वं पृच्छ मुनिसत्तम॥ 12-209-32(73367)
ततो मुनिर्यथायोगं जलं तत्वमवेक्ष्य तत्।
जलात्मानं प्रणम्याह जलतत्वस्थितो मुनिः॥ 12-209-33(73368)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं श्रोतुमिच्छामिकीदृग्भूतस्त्वमव्यय॥ 12-209-34(73369)
ततो रसात्म--मुनिमाह पुनः पुनः।
ममापि कारणं पृच्छ तेजोरूपं विभावसुम्।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम्॥ 12-209-35(73370)
ततोऽग्निं प्रणिपत्याह मुनिर्विस्मितमानसः।
यज्ञात्मानं महावासं सर्वभूतनमस्कृतम्॥ 12-209-36(73371)
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-37(73372)
ततः प्रहस्य भगवान्मुनिं स्विष्टकृदब्रवीत्।
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।
कारणं मम रूपं यत्तं पृच्छ मुनिसत्तम॥ 12-209-38(73373)
ततो योगक्रमेणैव प्रतीतं तं प्रविश्य सः।
रूपात्मानं प्रणम्याह नारदो वदतांवरः॥ 12-209-39(73374)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-40(73375)
उत्स्मयित्वा तु रूपात्मा तं मुनिं प्रत्युवाच ह।
वायुर्मे कारणं ब्रह्मंस्तं पृच्छ मुनिसत्तम।
मत्तो बहुतरः श्रीमाननन्तश्च महाविलम्॥ 12-209-41(73376)
स मारुतं प्रणम्याह भगवान्मुनिसत्तमः।
योगसिद्धो महायोगी ज्ञानविज्ञानपारगः॥ 12-209-42(73377)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-43(73378)
ततो वायुर्हि संप्राह नारदं मुनिसत्तमम्।
कारणं पृच्छ भगवन्स्पर्शात्मानं ममाद्य वै॥ 12-209-44(73379)
मत्तो बृहत्तरः श्रीमाननन्तश्च तथैव सः।
ततोस्य वचनं श्रुत्वा स्पर्शात्मानमुवाच सः॥ 12-209-45(73380)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-46(73381)
तस्य तद्वचनं श्रुत्वा स्पर्शात्मा मुनिमब्रवीत्।
नाहं वृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम॥ 12-209-47(73382)
कारणं मम चैवेममाकाशं च बृहत्तरम्।
तं पृच्छ मुनिशार्दूल सर्वव्यापिनमव्ययम्॥ 12-209-48(73383)
तच्छ्रुत्वा नारदः श्रीमान्वाक्यं वाक्यविशारदः।
आकाशं समुपागम्य प्रणम्याह कृताञ्जलिः॥ 12-209-49(73384)
आश्चर्योसि न धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-50(73385)
आकाशस्तमुवाचेदं प्रहसन्मुनिसत्तमम्।
नाहं बृहत्तरो ब्रह्मञ्शब्दो वै कारणं मम।
तं पृच्छ मुनिशार्दूल स वै मत्तो बृहत्तरः॥ 12-209-51(73386)
ततो ह्याविश्य चाकाशं शब्दात्मानमुवाच ह।
स्वरव्यञ्जनसंयुक्तं नानाहेतुविभूषितम्।
वेदाख्यं परमं गुह्यं वेदकारणमच्युतम्॥ 12-209-52(73387)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं श्रोतुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-53(73388)
वेदात्मा प्रत्युवाचेदं नारदं मुनिपुङ्गवम्।
मया कारणभूतेन सर्ववेत्ता पितामहः॥ 12-209-54(73389)
ब्रह्मणो बुद्धिसंस्थानमास्थितोऽहं महामुने।
तस्माद्वृहत्तरो मत्तः पद्मयोनिर्महामतिः।
तं पृच्छ मुनिशार्दूल सर्वकारणकारणम्॥ 12-209-55(73390)
ब्रह्मलोकं ततो गत्वा नारदो मुनिपुङ्गवैः।
सेव्यमानं महात्मानं लोकपालैर्मरुद्गणैः॥ 12-209-56(73391)
समुद्रैश्च सरिद्भिश्च भूततत्वैः सभूधरैः।
गन्धर्वैरप्सरोभिश्च ज्योतिषां च गणैस्तथा॥ 12-209-57(73392)
स्तुतिस्तोमग्रहस्तोभैस्तथा वेदैर्मुनीश्वरैः।
उपास्यमानं ब्रह्माणं लोकनाथं परात्परम्॥ 12-209-58(73393)
हिरण्यगर्भं विश्वेशं चतुर्वक्रेण भूषितम्।
प्रणम्य प्राञ्जलिः प्रह्वस्तमाह मुनिपुङ्गवः॥ 12-209-59(73394)
आश्चर्योसि च धन्योसि ह्यनन्तोसि बृहत्तरः।
भवन्तं वेत्तुमिच्छामि कीदृग्भूतस्त्वमव्यय॥ 12-209-60(73395)
तच्छ्रुत्वा भगवान्ब्रह्मा सर्वलोकपितामहः।
उत्स्मयन्मुनिमाहेदं कर्ममूलस्य लोपकम्॥ 12-209-61(73396)
नाहं बृहत्तरो ब्रह्मन्नाप्यनन्तश्च सत्तम।
लोकानां मम सर्वेषां नाथभूतो बृहत्तरः॥ 12-209-62(73397)
नन्दगोपकुले गोपकुमारैः परिवारितः।
समस्तजगतां गोप्ता गोपवेषेण संस्थितः॥ 12-209-63(73398)
मद्रूपं च समास्थाय जगत्सृष्टिं करोति सः।
ऐशानमास्थितः श्रीमान्हन्ति नित्यं हि पाति च॥ 12-209-64(73399)
विष्णुः स्वरूपरूपोऽसौ कारणं स हरिर्मम।
तं पृच्छ मुनिशार्दूल स चानन्तो बृहत्तरः॥ 12-209-65(73400)
ततोऽवतीर्य भगवान्ब्रह्मलोकान्महामुनिः।
नन्दगोपकुले विष्णुमेनं कृष्णं जगत्पतिम्॥ 12-209-66(73401)
बालक्रीडनकासक्तं वत्सजालविभूषितम्।
पाययित्वाथ बध्नन्तं धूलिधूम्राननं परम्॥ 12-209-67(73402)
गाहमानैर्हसद्भिश्च नृत्यद्भिश्च समन्ततः।
पाणिवादनकैश्चैव संवृतं वेणुवादकैः॥ 12-209-68(73403)
प्रणिपत्याब्रवीदेनं नारदो भगवान्मुनिः।
आश्चर्योसि च धन्योसि ह्यनन्तश्च बृहत्तरः।
वेत्ताऽसि चाव्ययश्चासि वेत्तुमिच्छामि यादृशम्॥ 12-209-69(73404)
ततः प्रहस्य भगवान्नारदं प्रत्युवाच ह।
मत्तः परतरं नास्ति मत्तः सर्वं प्रतिष्ठितम्॥ 12-209-70(73405)
मतो बृहत्तरं नान्यदहमेव बृहत्तरः।
आकाशे च स्थितः पूर्वमुक्तवानहमेव ते॥ 12-209-71(73406)
न मां वेत्ति जनः कश्चिन्माया मम दुरत्यया।
भक्त्या त्वनन्यया युक्ता मां विजानन्ति योगिनः॥ 12-209-72(73407)
प्रियोसि मम भक्तोसि मम तत्वं विलोकय।
ददामि तव तज्ज्ञानं येन तत्वं प्रपश्यसि॥ 12-209-73(73408)
अन्येषां चैव भक्तानां मम योगरतात्मनाम्।
ददामि दिव्यं ज्ञानं च येन तत्वं प्रपश्यसि॥ 12-209-74(73409)
अन्येषां चैव भक्तानां मम योगरतात्मनाम्।
ददामि दिव्यं ज्ञानं च तेन ते यान्ति मत्पदम्॥ 12-209-75(73410)
एवमुक्त्वा ययौ कृष्णो नन्दगोपगृहं हरिः॥ 12-209-76(73411)
भीष्म उवाच। 12-209-77x(6073)
एतत्ते कथितं राजन्विष्णुतत्वमनुत्तमम्।
भजस्वैनं विशालाक्षं जपन्कृष्णेति सत्तम॥ 12-209-77(73412)
मोहयन्मां तथा त्वां च शृणोत्येष मयेरितान्।
धर्मात्मा च महाबाहो भक्तान्रक्षति नान्यथा॥ ॥ 12-209-78(73413)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नवाधिकद्विशततमोऽध्यायः॥ 209॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|